द्वादशविधपुरुषः तत्वम् ।
(GENESIS OF BIG-BANG, ENERGY, CONSCIOUSNESS,
PERCEPTION, CONFINEMENT, INTERACTION, POTENTIAL, CHARGE, TIME, FREEWILL &
LIFE BEFORE CREATION.)
1.
केवल
निजस्वरूपेण अवस्थितस्य यदा वहुस्यां प्रजायेय इति इच्छा-ज्ञान-क्रियात्मिकाः
शक्तयः ताभिर्योगे क्रमेण अर्थ-शव्दसृष्टि अङ्कुरछायावत् युगपद् भवतः ।
तादृशसिसृक्षारूपोपाधिविशिष्टः परमशिव एव केवल निष्प्रपञ्चचिदेकात्मा शिवपदवाच्यो परम्ब्रह्म वाच्यो वा भवति । स एव आदिमः तत्वः । परमशिवो जगत् कवलयन्नपि न सार्वात्मैन । अपि
त्वंशेन संस्कारात्मना तत् स्थापयति । स एव संस्कारः ईश्वरः सिसृक्षायां
सहकारीभूतः ।
2.
सा पूर्वोदिता
सिसृक्षा स्वस्वरूपाभेदमयानहमित्येव
पश्यती । प्रपञ्चवासनारूपा शक्तिरिति द्वितीयं
तत्वम् । उक्तञ्च रत्नत्रयपरीक्षायाम्
-
कर्त्तृत्वं
तत्र धर्मी कलयति जगतां पञ्चसृष्ट्यादि कृत्ये ।
धर्मः पुंरूपमाद्यात्
सकलजगदुपादानभावं विभर्ति ।
स्त्रीरूपं
प्राप्य दिव्या भवति च महिषी स्वाश्रयस्यादिकर्तृः ।
प्रोक्तौ
धर्मप्रभेदावपि निगमविदां धर्म्मिवद् ब्रह्मकोटी ।
3.
पूर्वोक्ततादृशजगतः
अहन्तया यद्दर्शनं तदहमिति तादृशः स्पष्टवृत्तिमान् प्रवोधनात्मा सदाशिवपदवाच्यः तृतीयं तत्वम् ।
4.
इदं जगदिति
केवलं भेदविषयिणी या वृत्तिः तद्वान् ईश्वरः पदवाच्यं तुरीयं तत्वम् । स्पष्टभेदप्रथान् भावान् स्वाभेदेनावभासयन्
ईश्वरः प्रथित ।
5.
जगदहमेवेत्याकारिका
या सदाशिवसम्बन्धिनी वृत्तिः परमार्थप्रथारूपा सा शुद्धविद्यापदवाच्या
पञ्चमं तत्वम्।
एतानि पञ्च
शिवतत्वानि व्याख्यातानि । अथ सप्त विद्यातत्वानि उच्यते ।
6.
इदं
जगदित्याकारिका ईश्वरनिष्ठा भेदविषयिणी वृत्तिः मायापदवाच्या षष्ठं तत्त्वम्। उक्तञ्च परमानन्दतन्त्रे -
अखण्डरसमेतावदेतद्
भेदननैपुणा ।
स्वतन्त्ररूपा
त्वं देवी माया भैरववल्लभा ।
भेदनेन
स्वरूपस्य गोपनात्तत्वरूपिणी ।
स्वरूपभेदनं
हित्वा चैकावगमनोद्यता ।
अन्यत्रऽपि उक्तञ्च
-
कारणानां
गुणानां तु साम्यं प्रकृतिरुच्यते ।
तद्भिन्नः
पुरुषः प्रोक्तः पूर्णः संक्षिप्तशक्तिकः ।
चिदानन्दस्तथैच्छा
च ज्ञानं तद्वत् क्रियाऽपि च ।
परिपूर्णाश्शक्तयस्तु
सङ्कोचात्तु कलादिका ।
अत्र
सत्-चित्-आनन्द शव्दस्य सत् शव्दस्य व्याख्या छान्दोग्योपनिषदि – (8-3-5)
तानि ह वा एतानि
त्रीण्यक्षराणि सतीयमिति तद्यत्सत्तदमृतमथ यत्ति तन्मर्त्यमथ यद्द्यं तेनोभे
यच्छति ........। इच्छा-ज्ञान-क्रियात्मिका ते शक्तयः ।
7.
पूर्वोक्त शुद्धविद्यातिरोधानशक्तिमती तद्विरोधिनी अविद्या पदवाच्या सप्तमं
तत्वम् । शिवस्य ज्ञानं सर्वज्ञता । बुद्धिः तत्प्रतिविम्वा घटादयः । तेषामेव
वस्तुनां वोधतः । सर्वज्ञता सङ्कोचनात्तु विद्याख्या । सैव अविद्येति ।
8.
सर्वकर्तृत्वरूपा क्रियाशक्तिः सङ्कोचनात् कळाऽभवत् । जीवनिष्ठं सर्वकर्तृत्वं
यत्किञ्चित् कर्तृत्वेन सङ्कुचितं तदेव कळापदवाच्यं अष्टमं तत्वम् ।काल
9.
इच्छा तु नित्यतृप्ताख्या । सैव सङ्कोचशालिनी क्वचिद्रञ्जनरूपिणी क्वचिदतृप्ता
रागाख्या । क्वचिद् विषयेषु प्रीतिरूपिणीं सा अतृप्तिः रागः नवमं तत्वम् ।
10. चिच्छक्तीर्नित्यसत्ताख्या । जीवनिष्ठा या
नित्यता तस्या आच्छादने सति सैव नित्यता
अस्ति-जायते-वर्धते-विपरिणमते-अपक्षीयते-विनश्यतीति षड्भावयोगात् सङ्कुचिता
कालपदवाच्या दशमं तत्वम् ।
11. आनन्दशक्तिः स्वातन्त्र्यं सार्वत्रिकमुदीरितम् ।
अन्यापेक्षणहेतोस्तु सङ्कोचान्नियतिः स्मृताः । परशिवजीवयोः अभेदात् यथा परशिवे
सर्वस्वातन्त्रं तथा जीवेऽप्यस्ति । तस्य सर्वस्वातन्त्रस्य विधानं पूर्वोक्ताविद्ययाकृतं
तदेव कारणान्तरापेक्षं तन्नियतिपदवाच्यं एकादशं तत्वम् ।
12. एतादृश नियति-काल-राग-कला-अविद्याश्रयो जीवः पुरुषः वा द्वादशं तत्वम् तत्वम् ।
No comments:
Post a Comment
let noble thoughts come to us from all around