Tuesday, February 13, 2018

MAAGHA - EKAAKSHARI


MAAGHA - EKAAKSHARI
दाददो दुद्ददुद्दादी दाददो दूददीददोः । दुद्दादं दददे दुद्दे दादाददददोऽददः ॥ (Maagha).
Sri Krishna, the giver of every boon, the scourge of the evil-minded, the purifier, the one whose arms can annihilate the wicked who cause suffering to others, shot his pain-causing arrow at the enemy.
The meaning of the above stanza can only be derived by Sanskrit grammar. It is explained as follows:
दद्यते इति दादः दानम् । दद दाने इति कर्मणि घञ् । दादं ददातीति दाददो दानप्रदः । आतोऽनुपसर्गे कः । दुद्ददुद्दादी दुत् उपतापः । दुदु उपतापे क्विप् । दुतमुपतापं ददाति साधुनामिति दुदाः खलाः । पूर्ववत् कः । तेषां दुतमुपतापं ददत इति दुददुद्दादी । दद दाने इति धातोर्णिनिः । दा दादः । दाः शुद्धिः । दैपू शोधने क्विप् । तां ददत इति दादादः । दद दाने कर्मण्यण् । दुददीददोः । दुः परितापः । दुङ् परितापे क्विप् । तां ददतीति दुदा दुष्टाः । दीः क्षयः । दीङ् क्षये क्विप् । तां दत्त इति दीदौ नाशदौ । उभयत्राऽऽतोऽनुपसर्गे कः । दुदाना दीदौ दुष्टमर्दकौ दोषौ भुजौ यस्य सः दुददीददोः । दुष्टभञ्जकभुज इत्यर्थः । ददाऽददददः । ददन्ते इति दातारः । न ददन्ते इति ददाः दातारः । न ददन्ते इति अददा अदातारः । तेषां द्वयानामपि ददो दाता ददाददददः । सर्वत्र दद दाने पचाद्यच् । तान् द्यति खण्डयति इति अददः । दो अवखण्डने । आतोऽनुपसर्गे कः । एवंभूतो हरिः । दुतं ददातीति दुहः दुःखदः तस्मिन् दुद्दे शत्रौ । दुतं ददत इति दुद्दादं शस्त्रम् । दद दाने कर्मण्यण् । दददे ददौ । प्रयुक्तवान् इति अर्थः । दद दाने कर्तरि लिट् । एकाक्षरानुप्रासोलङ्कारः ।

No comments:

Post a Comment

let noble thoughts come to us from all around