Wednesday, February 22, 2017

रावणकृत शिवावतार स्तोत्रम्

माळवगौडरागेण रूपकताळेन गीयते । तल्लक्षणं यथा –
नितम्विनीचुम्बितवक्त्रपद्मः शुकद्युतिः कुण्डळवान् प्रमत्तः ।
सङ्गीतशाळां प्रविशन् प्रदोषे माळाधरो माळवरागराजः ।

हिमगिरिनिकट तटे जितवानसिमारम् ।
कळित वसन्त वृहत सहकारम् ।
शङ्कर धृत तापसवेष जय परमेश हरः ।

दक्षयजनसमये कृतवानसिकोपम् ।
विहित समस्त मरुत परितापम् ।
शङ्कर धृत वीरविनोद जय परमेश हरः ।

त्रिपुरविजय करिणे श्रितवानसि विष्णुम् ।
वाणतनयारि जयप्रभ जिष्णुम् ।
शङ्कर धृत वेदतुरग जय परमेश हरः ।

क्षीरजलधिमथने धृतवानसि गरलम् ।
प्रलय समये दहन शिखा तरलम् ।
शङ्कर धृत भीमस्वरूप जय परमेश हरः ।

वपुसि किरातमये धृतवानसि मोदम् ।
जनति पृथातनयातिविनोदम् ।
शङ्कर धृत जनकविकल्प जय परमेश हरः ।

वाणा मथने हरि धृत हरि पक्षम् ।
भक्तरतो कृत मधु वैरि मोक्षम् ।
शङ्कर धृत शौरीविरोध जय परमेश हरः ।

रजतगिरिनिकटे मुनि सन्नत चरणम् ।
भूतभयङ्कर भुजगाभरणम् ।
शङ्कर धृत चन्द्रविभूति जय परमेश हरः ।

दशाननरचितं स्तोत्रमिदं रुचिरम् ।
धृत भवतां फलदं पठतां सुचिरम् ।
शङ्कर धृत गिरिजार्द्धशरीर जय परमेश हरः ।

शङ्कर गुरुणां शङ्कर करुणां दशानन मूढ वन्दितं -
चरणं निःशङ्क शरणं नहि नहि कल्मुष स्पन्दितम् ।
शङ्कर धृत सद्गुरुरूप जय परमेश हरः ।

मारं वारयते हिमाद्रिनिकटे दक्षाध्वर ध्वंसिने ।
विष्णुं वारयते पुरत्रयजये क्ष्वेडंगले विभूते ।
कैरातं दधते वसुकीटि जये वाणं हरे रक्षते ।
कैलासे मुनिभिः नृताय च महादेवाय तुभ्यं नमः ।

1 comment:

  1. इदं पद्यं भवता कस्मिन् ग्रन्थे कस्यां कृतौ वा लब्धम् ?

    ReplyDelete

let noble thoughts come to us from all around