Thursday, March 02, 2017

GENESIS OF BIG-BANG, ENERGY, CONSCIOUSNESS, PERCEPTION, CONFINEMENT, INTERACTION, POTENTIAL, CHARGE, TIME, FREEWILL & LIFE BEFORE CREATION.

                    द्वादशविधपुरुषः तत्वम् । 

(GENESIS OF BIG-BANG, ENERGY, CONSCIOUSNESS, PERCEPTION, CONFINEMENT, INTERACTION, POTENTIAL, CHARGE, TIME, FREEWILL & LIFE BEFORE CREATION.)

1.   केवल निजस्वरूपेण अवस्थितस्य यदा वहुस्यां प्रजायेय इति इच्छा-ज्ञान-क्रियात्मिकाः शक्तयः ताभिर्योगे क्रमेण अर्थ-शव्दसृष्टि अङ्कुरछायावत् युगपद् भवतः । तादृशसिसृक्षारूपोपाधिविशिष्टः परमशिव एव केवल निष्प्रपञ्चचिदेकात्मा शिवपदवाच्यो परम्ब्रह्म वाच्यो वा भवति । स एव आदिमः तत्वः । परमशिवो जगत् कवलयन्नपि न सार्वात्मैन । अपि त्वंशेन संस्कारात्मना तत् स्थापयति । स एव संस्कारः ईश्वरः सिसृक्षायां सहकारीभूतः ।
2.   सा पूर्वोदिता सिसृक्षा स्वस्वरूपाभेदमयानहमित्येव पश्यती । प्रपञ्चवासनारूपा शक्तिरिति द्वितीयं तत्वम् । उक्तञ्च रत्नत्रयपरीक्षायाम् -
कर्त्तृत्वं तत्र धर्मी कलयति जगतां पञ्चसृष्ट्यादि कृत्ये ।
धर्मः पुंरूपमाद्यात् सकलजगदुपादानभावं विभर्ति ।
स्त्रीरूपं प्राप्य दिव्या भवति च महिषी स्वाश्रयस्यादिकर्तृः ।
प्रोक्तौ धर्मप्रभेदावपि निगमविदां धर्म्मिवद् ब्रह्मकोटी ।
3.   पूर्वोक्ततादृशजगतः अहन्तया यद्दर्शनं तदहमिति तादृशः स्पष्टवृत्तिमान् प्रवोधनात्मा सदाशिवपदवाच्यः तृतीयं तत्वम् ।
4.   इदं जगदिति केवलं भेदविषयिणी या वृत्तिः तद्वान् ईश्वरः पदवाच्यं तुरीयं तत्वम् । स्पष्टभेदप्रथान् भावान् स्वाभेदेनावभासयन् ईश्वरः प्रथित ।
5.   जगदहमेवेत्याकारिका या सदाशिवसम्बन्धिनी वृत्तिः परमार्थप्रथारूपा सा शुद्धविद्यापदवाच्या पञ्चमं तत्वम्।

एतानि पञ्च शिवतत्वानि व्याख्यातानि । अथ सप्त विद्यातत्वानि उच्यते ।

6.   इदं जगदित्याकारिका ईश्वरनिष्ठा भेदविषयिणी वृत्तिः मायापदवाच्या षष्ठं तत्त्वम्। उक्तञ्च परमानन्दतन्त्रे -
अखण्डरसमेतावदेतद् भेदननैपुणा ।
स्वतन्त्ररूपा त्वं देवी माया भैरववल्लभा ।
भेदनेन स्वरूपस्य गोपनात्तत्वरूपिणी ।
स्वरूपभेदनं हित्वा चैकावगमनोद्यता ।
अन्यत्रऽपि उक्तञ्च -
कारणानां गुणानां तु साम्यं प्रकृतिरुच्यते ।
तद्भिन्नः पुरुषः प्रोक्तः पूर्णः संक्षिप्तशक्तिकः ।
चिदानन्दस्तथैच्छा च ज्ञानं तद्वत् क्रियाऽपि च ।
परिपूर्णाश्शक्तयस्तु सङ्कोचात्तु कलादिका ।
अत्र सत्-चित्-आनन्द शव्दस्य सत् शव्दस्य व्याख्या छान्दोग्योपनिषदि – (8-3-5)
तानि ह वा एतानि त्रीण्यक्षराणि सतीयमिति तद्यत्सत्तदमृतमथ यत्ति तन्मर्त्यमथ यद्द्यं तेनोभे यच्छति ........। इच्छा-ज्ञान-क्रियात्मिका ते शक्तयः ।
7.   पूर्वोक्त शुद्धविद्यातिरोधानशक्तिमती तद्विरोधिनी अविद्या पदवाच्या सप्तमं तत्वम् । शिवस्य ज्ञानं सर्वज्ञता । बुद्धिः तत्प्रतिविम्वा घटादयः । तेषामेव वस्तुनां वोधतः । सर्वज्ञता सङ्कोचनात्तु विद्याख्या । सैव अविद्येति ।
8.   सर्वकर्तृत्वरूपा क्रियाशक्तिः सङ्कोचनात् कळाऽभवत् । जीवनिष्ठं सर्वकर्तृत्वं यत्किञ्चित् कर्तृत्वेन सङ्कुचितं तदेव कळापदवाच्यं अष्टमं तत्वम् ।काल
9.   इच्छा तु नित्यतृप्ताख्या । सैव सङ्कोचशालिनी क्वचिद्रञ्जनरूपिणी क्वचिदतृप्ता रागाख्या । क्वचिद् विषयेषु प्रीतिरूपिणीं सा अतृप्तिः रागः नवमं तत्वम् ।
10. चिच्छक्तीर्नित्यसत्ताख्या । जीवनिष्ठा या नित्यता तस्या आच्छादने सति सैव नित्यता अस्ति-जायते-वर्धते-विपरिणमते-अपक्षीयते-विनश्यतीति षड्भावयोगात् सङ्कुचिता कालपदवाच्या दशमं तत्वम् ।
11. आनन्दशक्तिः स्वातन्त्र्यं सार्वत्रिकमुदीरितम् । अन्यापेक्षणहेतोस्तु सङ्कोचान्नियतिः स्मृताः । परशिवजीवयोः अभेदात् यथा परशिवे सर्वस्वातन्त्रं तथा जीवेऽप्यस्ति । तस्य सर्वस्वातन्त्रस्य विधानं पूर्वोक्ताविद्ययाकृतं तदेव कारणान्तरापेक्षं तन्नियतिपदवाच्यं एकादशं तत्वम् ।

12. एतादृश नियति-काल-राग-कला-अविद्याश्रयो जीवः पुरुषः वा द्वादशं तत्वम् तत्वम् ।

No comments:

Post a Comment

let noble thoughts come to us from all around