ब्राह्मण और ऋषि
ब्राह्मणः शव्दस्य निर्वचनम्
–
ब्राह्मणो विप्रस्य
प्रजापतेर्वा अपत्यम् ।
ब्राह्मण्यां ब्राह्मणाञ्जातो
ब्राह्मणः स्यान्न संशयः ।
क्षत्रियायां
तथैवस्याद्वैश्यायामपि चैव हि । महाभारते अनुशासनपर्वणि 47-28 ।
प्लक्षद्वीपे तस्य संज्ञा
हंसः। शाल्मलदेशे श्रुतिधरः। कुशद्वीपे गुरुः। शाकद्वीपे ऋतब्रतः । पुष्करद्वीपे
सर्वे एकवर्णाः।
ब्राह्मणः लक्षणम् –
शान्ताः सन्तः सुशीलाश्च सर्वभूतहिते रताः ।
क्रोधं कर्तुं न जानन्ति एतद्ब्राह्मणलक्षणम् ।
सन्ध्योपासनशीलश्च सौम्यचित्तो दृढव्रतः ।
समः परेषु च स्वेषु एतद्ब्राह्मणलक्षणम् ।
एकाहारश्च सन्तुष्टः स्वल्पाशी स्वल्पमैथुनः ।
ऋतुकालाभिगामी च एतद्ब्राह्मणलक्षणम् ।
परान्नं परवित्तं च पथि
वा यदि वा गृहे ।
अदत्तं नैव गृह्णाति एतद्ब्राह्मणलक्षणम्
।
सत्यं ब्रह्म तपो ब्रह्म
ब्रह्म चेन्द्रियनिग्रहः ।
सर्वभूतदया ब्रह्म
एतद्ब्राह्मणलक्षणम् ।
योगस्तपो दमो दानं सत्यं
शौचं दया स्मृतम् ।
विद्या
विज्ञानमास्तिक्यमेतद्ब्राह्मणलक्षणम् ।
ऋष्यर्थ निर्वचनम् –
1)
ऋषति प्राप्नोति
सर्वान् मन्त्रान् ज्ञानेन पश्यति संसारपारं वा इति । ज्ञानसंसारयोः पारंगन्ता । शास्त्रकृदाचार्यः
। यथा ऋग्वेदे (1-1-2) “अग्निःपूर्वेभिर्ऋषिभिरीड्यो
नुतनैरुत । स देवा एह वक्षति ।”.
2)
असत् वा इदमग्र आसीत् ।
तदाहुः किं तदसदासीदित्यृषयोः वाव तेऽग्रेऽसदासित्तदाहुः के त ऽऋषयः इति प्राणा वा ऋषयस्ते यत्पुराऽस्मात्सर्वस्मादिदमिच्छन्तः
श्रमेण तपसारिषंस्तस्मादृषयः। शतपथ ब्राह्मणम् 6-1-1 ।
एतेषां विभागः -
सप्त ब्रह्मर्षि-देवर्षि-महर्षि-परमर्षयः ।
काण्डर्षिश्च श्रुतर्षिश्च राजर्षिश्च क्रमावराः ।
No comments:
Post a Comment
let noble thoughts come to us from all around